संस्कृत विद्युतपत्रिका
|
भ |
व |
तां |
हा |
र्दं |
स्वा |
ग |
त |
म् |
वार्तिककारा: डॉ० त्रिालोक झा बैंकर्स कॉलोनी सरस्वती
विहार लक्ष्मीसागर, दरभंगा
(बिहार) अष्टाध्यायीमधिकृत्य वैयाकरणैर्वार्तिकानि विरचितानि।
तेषु केषांचिदेव नामानि समुपलभयन्ते। शेषास्तु अन्ये, अपरे केचिदिति सर्वनामपदैरेव सड्.कीत्र्यन्ते। महाभाष्ये प×चवार्तिककाराणां नामानि तट्टीकासु
द्वयोश्च नाम्नी प्राप्यन्ते। एवं सप्तवार्तिक कृतो नामतो विदिता: सन्ति। तेषां नामानि -१ कात्यायन: कात्यो वा २.भारद्वाज: ३. सुनाग: ४. क्रोष्टा
५. वाडव: ६.व्याध्रभूति: ७. वैयाध्रपद्यश्च। १. वार्तिककार: कात्यायन: - मुनित्रायसमवाये पाणिनेरनन्तरं वार्तिककाररूपेण कात्यायनस्य नाम सादरं स्मृतिपथं नीयते। यथा•य वार्तिक कृत्सु प्रसिद्धेÜचरमसीमानं प्राप्तो न तथा अन्ये। इदमपि गौरवास्पदं
यदधिकांशतया महाभाष्ये कात्यायन कृतवार्तिकनामेव व्याख्यानमवलोक्यते। त्रिाकाण्डशेषकोषस्य रचयिता पुरूषोत्तमदेव:
कात्यायनस्य पर्यायार्नवमाह कात्य: कात्यायन:
पुनर्वसु: मेधाजित वररूचि: च। अयं हि दाक्षिणात्य: कात्यायन: पाणिने: साक्षाच्छिष्य: आसीदिति मन्यते। अस्य समयो विक्रमशताबदीत: २९००µ३०००वर्ष
पूर्वमेव। कात्यायनस्य कृतीना×चर्चा- कात्यायनगोत्राो वररूचि स्वकीय गोत्रानाम्नैव
,ख्यातिमुपजगाम:। महाभाष्ये१ पत×जलि: किमपि वाररूचं कात्यं निदिष्टवान् , यस्यापरं नाम स्वर्गारोहन काव्यमिति। çस्तुतकाव्यस्योल्लेख:
"कृष्णचरिते "२एवमुपलश्यते- " य: स्वर्गारोहणं कृत्वा स्वर्गमानीतवान्
भुवि। कात्येन रूचिरणैव ख्यातो वररूचि: कवि:।।" " न केवलं व्याकरणं पुपोष दाक्षीसुतस्येरितवार्तिकैर्य:। काव्ये•पि
भूयो•नुचकार तं वै कात्यायनो•सौ कविकर्मदक्ष:।।" २. वर्तिककार: भारद्वाज:-
महर्षिपत×जलिर्भारद्वाजकृतवार्तिकानां चर्चा महाभाष्ये बहुत्रा कृतवान् एतेषामपि
सम्बन्ध:पाणिनीयाष्टाध्याया सह वर्तत एव। भारद्वाजकृतवर्तिकस्य स्वरूपं कात्यायनकृतवार्तिकस्य
अपेक्षया विस्तृतमासीत्। यथा- कात्यायन:- घुसंज्ञायां प्रकृतिग्रहणं शिदर्थम्। भारद्वाज:- घुसंज्ञायां प्रकृतिग्रहणं शिद्विकृतार्थम्।३ कात्यायन: - यक्यिणो: प्रतिषेधे हेतुमणिश्रिव्रू×ाामुपसंख्यानम्। भारद्वाज:-यक्यिणो: प्रतिषेधे णिश्रिश्रन्थि
गन्धि व्रू×ाामात्मनेपदाकर्म- काणामुपसंख्यानम्।४ भारद्वाजाचार्यस्य स्थिति: कालविषये कुत्राापि
वर्णनं न प्राप्यते । पािणनियाष्टाध्यायामुल्लेखात् भारद्वाजाचार्यस्य कालो वैक्रमाब्दात्
त्रिासहस्रवर्षपूर्वमितिस्वीकर्तुंं शक्यते। ३. कार्तिककार: सुनाग:- महाभाष्यस्य बहुत्रा
स्थलेषु सौनागवार्तिकानि उपलभ्यन्ते। अत्रा विषये पदम×जर्यांं५ सुनागस्य
चर्चा कृता वर्तते - "सुनागस्याचार्यस्य
शिष्या: सौनागा:"इति। इमे वर्तिका अपि पाणिनीयाष्टकसम्बद्धा:। आयं विशेषो यत्
कात्यायन कृतावर्तिकेभ्य: सौनागवार्तिकस्य स्वरूपम्- "न×ा् न×ाीकक्ख्युस्तरूनतलुनानामुपसंख्यानम्।६
वर्तिककारसुनागस्य देशकालविषये चर्चा नोपलभ्यते। ४. वार्तिककार: क्रोष्टा:- क्रौष्ट्रीयं वार्तिकं केवलं महाभाष्ये(१:१:३)
सकृदेव पठितम् उपलभ्यते । "न चा•न्यत्रा
पत×जलिनिर्दिशति -"परिभाषान्तरमिति७
च कृत्वा क्रोष्ट्रीया:पठन्ति- नियमादिको गुणवृद्धी भवतो विप्रतिषेधेन"।
अस्या••चार्यस्य देशकालविषये चर्चा नोपलभ्यते। ५. वार्तिककार: वाडव:- अनिष्टिज्ञो वाडव: पठति। महाभष्ये (८.२.१०६) अन्यत्रा
महाभाष्ये (७.३.१) कुणरवाडवस्यापि चर्चा सुलभा । किं वाडव एव कुणरवाडव: किमुत अन्य: को•पि ? अस्य वार्तिककारस्य
विषये एतदतिरिäं न कि×िचज्ज्ञायते। ६. वार्तिककार: व्याध्रभूति:- पत×जलिन: महाभाष्ये•स्य साक्षादुल्लेखो न विहित:।
किन्तु अदोजग्धि (२.४.३६) सूत्रो जग्धिविधि ....... इत्यादि
Üलोकवार्तिकं वर्तते। तत्रा कैयटेन इदं श्लोकवार्तिकं व्याघ्रभूतिकृतमिति स्वीकरोति८ । पण्डितगुरूपदहालदारमहोदयेना•यं पणिनेराचार्यस्य
साक्षात् शिष्य उä:।९ ७. वार्तिककार: वैयाघ्रपद्य:- व्याकरणशास्त्रास्य रचियतु: श्री वैयाघ्रपद्यस्य
नाम महाभाष्ये बहुत्रा उदाहरणेषु समुपलभ्यते। केचन अन्ये च वैयाकरणा: महाभाष्ये निदिष्टा:
सन्ति- तेषु गोनर्दीया: गोणिकापुत्रा: सौर्यभगवान्, कुणरवाडवश्च सुप्रसिद्धा:। श्रीपण्डित
युधिष्ठिर मीमांसकमहोदय मतानुसारेण व्याघ्रप+द्यानामानौ द्वावाचार्यो मन्तव्यौ पाणिने:
पूर्ववर्ती व्याकरणशास्त्राप्रवäा: द्वितीयश्च पाणिनेरर्वाचीन: वार्तिककारो वैयाघ्रपद्यश्चेति।
१. महाभाष्यम्- ४.३.१०१। २. कृष्ण चरितस्य मुनिकविवर्णने (व्याकरणशास्त्रोतिहास:-पृ०-४६) ३. पत×जलि- व्याकरणमहाभाष्यम्, १.१.२०। ४. तदेव, ३.१.८९। ५. सुनागाचार्यस्य शिष्य: सौनागा:। (हरदत्त-पदम×जरी,
भाग-२, पृ०-७६१।।) ६. एवं हि सौनागा: पठन्ति- न×स्न×ाोकक्ख्युस्तरूणतुलनानामुपसंख्यानम्।
(पत×जलि-महाभाष्यम्, ३.२.५६, ४.१.८७) ७. पत×जलि- व्याकरणमहाभाष्यम्, १.१.३११ ८. अममेवार्थो व्याघ्रभूतिनाप्युä इत्याह....................। (कैयट- महाभाष्य प्रदीप-२.४.३६१) ९. व्याक० दर्श० इतिहास पृष्ठ-४४४ । ------------------------------------------------------------------------------------------------ |
|